...ॐ...

ऋग्वेद

मण्डल एक

 
Skip Navigation Links
6
युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः | रोचन्तेरोचना दिवि ||
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे | शोणा धर्ष्णू नर्वाहसा ||
केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे | समुषद्भिरजायथाः ||
आदह सवधामनु पुनर्गर्भत्वमेरिरे | दधाना नामयज्ञियम ||
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः | अविन्द उस्रिया अनु ||
देवयन्तो यथा मतिमछा विदद्वसुं गिरः | महामनूषत शरुतम ||
इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा | मन्दू समानवर्चसा ||
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति | गणैरिन्द्रस्य काम्यैः ||
अतः परिज्मन्ना गहि दिवो वा रोचनादधि | समस्मिन्न्र्ञ्जते गिरः ||
इतो वा सातिमीमहे दिवो वा पार्थिवादधि | इन्द्रं महोवा रजसः ||
7
इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः | इन्द्रं वाणीरनूषत ||
इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा | इन्द्रो वज्रीहिरण्ययः ||
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि | वि गोभिरद्रिमैरयत ||
इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च | उग्र उग्राभिरूतिभिः ||
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे | युजं वर्त्रेषु वज्रिणम ||
स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि | अस्मभ्यमप्रतिष्कुतः ||
तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः | न विन्धेस्य सुष्टुतिम ||
वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा | ईशानो अप्रतिष्कुतः ||
य एकश्चर्षणीनां वसूनामिरज्यति | इन्द्रः पञ्च कसितीनाम ||
इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः | अस्माकमस्तु केवलः ||
8
एन्द्र सानसिं रयिं सजित्वानं सदासहम | वर्षिष्ठमूतये भर ||
नि येन मुष्टिहत्यया नि वर्त्रा रुणधामहै | तवोतासो नयर्वता ||
इन्द्र तवोतास आ वयं वज्रं घना ददीमहि | जयेम सं युधि सप्र्धः ||
वयं शूरेभिरस्त्र्भिरिन्द्र तवया युजा वयम | सासह्याम पर्तन्यतः ||
महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे | दयौर्नप्रथिना शवः ||
समोहे वा य आशत नरस्तोकस्य सनितौ | विप्रासो वा धियायवः ||
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते | उर्वीरापो न काकुदः ||
एवा हयस्य सून्र्ता विरप्शी गोमती मही | पक्वा शाखा न दाशुषे ||
एवा हि ते विभूतय ऊतय इन्द्र मावते | सद्यश्चित सन्तिदाशुषे ||
एवा हयस्य काम्या सतोम उक्थं च शंस्या | इन्द्राय सोमपीतये ||
9
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः | महानभिष्टिरोजसा ||
एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने | चक्रिं विश्वानि चक्रये ||
मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे | सचैषुसवनेष्वा ||
अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत | अजोषा वर्षभं पतिम ||
सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम | असदित ते विभु परभु ||
अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः | तुविद्युम्न यशस्वतः ||
सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत | विश्वायुर्धेह्यक्षितम ||
अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम | इन्द्र ता रथिनीरिषः ||
वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम | होम गन्तारमूतये ||
सुते-सुते नयोकसे बर्हद बर्हत एदरिः | इन्द्राय शूषमर्चति ||
10
गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः | बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे ||
यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम | तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति ||
युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा | अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ||
एहि सतोमानभि सवराभि गर्णीह्या रुव | बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय ||
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे | शक्रो यथा सुतेषु णो रारणत सख्येषु च ||
तमित सखित्व ईमहे तं राये तं सुवीर्ये | स शक्र उत नः शकदिन्द्रो वसु दयमानः ||
सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः | गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः ||
नहि तवा रोदसी उभे रघायमाणमिन्वतः | जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि ||
आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः | इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम ||
विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम | वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम ||
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब | नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम ||
परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः | वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ||
पिछला पेज... अगला पेज...
मण्डल एक के -- Skip Navigation Links